(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.132. अध्यायः 132
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन कुन्तींप्रति सप्रणामं सभावृत्तन्तकथनम् ॥ 1 ॥ कुन्त्या कृष्णचोदनया तस्मिन् युधिष्ठिराय संदेशप्रेषणम् ॥ 2 ।
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-132-0x(3776)(36305)
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च।
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥ 5-132-1(36306)
वासुदेव उवाच। 5-132-2x(3777)
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम्।
ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान् ॥ 5-132-2(36307)
कालपक्वमिदं सर्वं सुयोधनवशानुगम्।
` सर्वक्षत्रं क्षणेनैव दह्यते पार्थवह्निना ।'
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥ 5-132-3(36308)
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ।
तद्ब्रूहि त्वं महाप्रज्ञे शुश्रूषे वचनं तव ॥ 5-132-4(36309)
कुन्त्युवाच। 5-132-5x(3778)
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् ।
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥ 5-132-5(36310)
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥ 5-132-6(36311)
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा ।
बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः ॥ 5-132-7(36312)
क्रूराय कर्मणे नित्यं प्रजानां परिपालने।
श्रृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ॥ 5-132-8(36313)
मुचुकुन्दस्य राजर्षेरददत्पृथिवीमिमाम्।
पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान् ॥ 5-132-9(36314)
बाहुवीर्यार्जितं राज्यमश्रीयामिति कामये।
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥ 5-132-10(36315)
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् ।
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः॥ 5-132-11(36316)
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा विन्देन भारत ॥ 5-132-12(36317)
राजा चरति चेद्धर्मं देवत्वायैव कल्पते।
स चेदधर्मं चरति नरकायैव गच्छति ॥ 5-132-13(36318)
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति।
प्रयुक्तास्वामिना सम्यगधर्मेभ्यो नियच्छति ॥ 5-132-14(36319)
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते।
तदा कृतयुं नाम कालः श्रेष्ठः प्रवर्तते ॥ 5-132-15(36320)
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ 5-132-16(36321)
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च।
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ 5-132-17(36322)
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्रुते ।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्रुते ॥ 5-132-18(36323)
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्रुते ।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्रुते ॥ 5-132-19(36324)
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।
राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥ 5-132-20(36325)
राजधर्मानवेक्षस्व पितृपैतामहोचितान्।
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥ 5-132-21(36326)
न हि वैक्लब्यसंसृष्ट आनृशंस्ये व्यवस्थितः ।
प्रजापालनसंभूतं फलं किंचन लब्धवान् ॥ 5-132-22(36327)
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः ।
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥ 5-132-23(36328)
यज्ञो दानं तपः शौर्यं प्रज्ञा सन्तानमेव च ।
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥ 5-132-24(36329)
नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः ।
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥ 5-132-25(36330)
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च।
दानमध्ययनं यज्ञः प्रजानां परिपालनम् ॥ 5-132-26(36331)
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः ।
ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥ 5-132-27(36332)
यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः ।
प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥ 5-132-28(36333)
दानेनान्यं बलेनान्यं तथा सूनृतयाऽपरम्।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः॥ 5-132-29(36334)
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत्।
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥ 5-132-30(36335)
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते ।
क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता ॥ 5-132-31(36336)
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर ।
साम्ना भेदेन दानेन दण्डेनाथ नयेन वा ॥ 5-132-32(36337)
इतो दुःखतरं किं नु यदहं दीनबान्धवा।
परपिण्डमुदीक्षे वै त्वां सूत्वा मित्रनन्दन ॥ 5-132-33(36338)
युध्यस्व राजधर्मेण मा निमञ्जीः पितामहान् ।
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं ॥ ॥ 5-132-34(36339)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-132-5 भूयान् पृथ्वीपालनजो धर्मः ॥ 5-132-6 श्रोत्रियस्य वेदाध्यायिनः । मन्दकस्य अर्थज्ञानशून्यस्य । अनुवाकेन अत्यन्तं वेदाक्षसंवृत्त्या हता नष्टाः ॥ 5-132-20 जगतः दोषेण सच राजा स्पृश्यते ॥ 5-132-22 फलं न लब्धवान् असीति शेषः ॥ 5-132-25 नित्यमिति । मानुषाश्च देवताश्च सम्यगाराधिताः सत्यः इह लोके आयुरादीनि परलोकसाधनानि स्वधादीनि सत्कर्माणि च दद्युः ॥ 5-132-27 एतत् मद्वाक्यं धर्मं धर्मयुक्तं अधर्मं च जन्मनैव स्वभावत एव अभ्यजायथाः अभिजानीषे। हे कृष्ण ते तु पाण्डवास्तु वैद्याः विद्यावन्तः ॥ 5-132-29 राज्य राजत्वं क्षत्रियत्वमित्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.